श्री गायत्री स्तोत्रम् (देवी भागवत पुराण अंतर्गत)

Shri Gayatri Stotram (In Devi Bhagvat Purana)


नारद उवाच ।
भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् । गायत्र्याः कथितं तस्माद्गायत्र्याः स्तोत्रमीरय ॥ १ ॥

श्रीनारायण उवाच ।

आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि । सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नामोऽस्तु ते ॥ २ ॥

त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती ।ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥ ३ ॥

प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः । वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥ ४ ॥

हंसस्था गरुडारूढा तथा वृषभवाहनी । ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥ ५ ॥

यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते । सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥ ६ ॥

रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी । त्वमेव ब्राह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥ ७ ॥

सप्तर्षिप्रीतिजननी माया बहुवरप्रदा । शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥ ८ ॥

आनन्दजननी दुर्गा दशधा परिपठ्यते । वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी ॥ ९ ॥

गरिष्ठा च वरार्हा च वरारोहा च सप्तमी । नीलगङ्गा तथा सन्ध्या सर्वदा भोगमोक्षदा ॥ १० ॥

भागीरथी मर्त्यलोके पाताले भोगवत्यपि । त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥ ११ ॥

भूर्लोकस्था त्वमेवाऽसि धरित्री लोकधारिणी । भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥१२॥

महर्लोके महासिद्धिर्जनलोके जनेत्यपि । तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥ १३ ॥

कमला विष्णुलोके च गायत्री ब्रह्मलोकदा । रुद्रलोके स्थिता गौरी हरार्धाङ्गनिवासिनी ॥ १४ ॥

अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे । साम्यवस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥ १५ ॥

ततः पराऽपराशक्ति परमा त्वं हि गीयसे । इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा ॥ १६ ॥

गङ्गा च यमुना चैव विपाशा च सरस्वती । सुरयूर्देविका सिन्धुर्नर्मदेरावती तथा ॥ १७ ॥

गोदावरी शतद्रूश्च कावेरी देवलोकगा । कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥ १८ ॥

गण्डकी तापिनी तोया गोमती वेत्रवत्यपि । इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥ १९ ॥

गान्धारी हस्तिजिह्वा च पूषापूषा तथैव च । अलम्बुसा कुहूश्चैव शङ्खिनी प्राणवाहिनी ॥ २० ॥

नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः । हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥ २१ ॥

तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी । मूले तु कुण्डली शक्तिर्व्यापिनी केशमूलगा ॥ २२ ॥

शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी । किमन्यद्बहुनोक्तेन यत्किञ्चिज्जगतीत्रये ॥ २३ ॥

तत्सर्वं त्वं महादेवि श्रिये सन्ध्ये नमोऽस्तु ते। इतीदं कीर्तितं स्तोत्रं सन्ध्यायां बहुपुण्यदम् ॥ २४ ॥

महापापप्रशमनं महासिद्धिविधायकम् । य इदं कीर्तयेत् स्तोत्रं सन्ध्याकाले समाहितः ॥ २५ ॥

अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् । सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥ २६ ॥

भोगान् भुङ्क्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् । तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥ २७ ॥

यत्र कुत्र जले मग्नः सन्ध्यामज्जनजं फलम् । लभते नात्र सन्देहः सत्यं सत्यं च नारद ॥ २८ ॥

शृणुयाद्योपि तद्भक्त्या स तु पापात्प्रमुच्यते । पीयूषसदृशं वाक्यं सन्ध्योक्तं नारदेरितम् ॥ २९ ॥
इति श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे गायत्रीस्तोत्रं नाम पञ्चमोऽध्यायः ॥

From : Devi Bhagvat Purana, Skandha 12, Adhyay 5 ( देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०५ )