#stotram #bramha ji

श्री ब्रह्म स्त्रोतम्

Shri Brahma Stotram

नमस्ते सते ते जगत्कारणाय नमस्ते चिते सर्वलोकाश्रयाय। नमोऽद्वैततत्त्वाय मुक्तिप्रदाय नमो ब्रह्मणे व्यापिने शाश्वताय। त्वमेकं शरण्यं त्वमेकं वरेण्यं, त्वमेकं जगत्पालकं स्वप्रकाशम्

नमस्ते सते ते जगत्कारणाय नमस्ते चिते सर्वलोकाश्रयाय।
नमोऽद्वैततत्त्वाय मुक्तिप्रदाय नमो ब्रह्मणे व्यापिने शाश्वताय।

त्वमेकं शरण्यं त्वमेकं वरेण्यं, त्वमेकं जगत्पालकं स्वप्रकाशम्
त्वमेकं जगत्कर्तृ, पातृ प्रहर्तृ, त्वमेकं परं निश्चलं निर्विकल्पम्

भयानां भयं भीषणं भीषणानां गतिः प्राणिनां पावनं पावनानाम्
महोच्चैः पदानां नियन्तृ त्वमेकं परेषां परं रक्षणं रक्षाणानाम्

वयं त्वां स्मरामो, वयं त्वां भजामो वयं त्वां जगत्साक्षिरूपं नमामः
सदेकं निधानं निरालम्बमीशम् भवाम्भोधिपोतं शरण्यं व्रजामः

न तस्य कश्चित् पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम्
स कारणं करणाधिपाधिपो न चास्य कश्चित् जनिता न चाधिपः

तमीश्वराणां परमं महेश्वरं तं देवतानां परमं हि दैवतम्
पतिं पतीनां परमं परस्ताद विदाम देवं भुवनेशमीड्यम्

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव
त्वमेव विद्या द्रविणम् त्वमेव त्वमेव सर्वम् मम देव देव

Explore more content: